(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।
॥ श्रीः ॥
1.84. अध्यायः 084
Mahabharata - Adi Parva - Chapter Topics
मृतस्य स्वर्गादिभोगानन्तरं पुनर्जननप्रकारकथनम्॥1 ॥
Mahabharata - Adi Parva - Chapter Text
अष्टक उवाच। 1-84-0x(504)(3720)
यदाऽवसो नन्दने कामरूपी
संवत्सराणामयुतं शतानाम्।
किं कारणं कार्तयुगप्रधान
हित्वा च त्वं वसुधामन्वपद्यः॥ 1-84-1(3721)
ययातिरुवाच। 1-84-2x(505)
ज्ञातिः सुहृत्स्वजनो वा यथेह
क्षीणे वित्ते त्यज्यते मानवैर्हि।
तथा तत्र क्षीणपुण्यं मनुष्यं
त्यजन्ति सद्यः सेश्वरा देवसङ्घाः॥ 1-84-2(3722)
अष्टक उवाच। 1-84-3x(506)
तस्मिन्कथं क्षीणपुण्या भवन्ति
संमुह्यते मेऽत्र मनोऽतिमात्रम्।
किं वा विशिष्टाः कस्य धामोपयान्ति
तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे॥ 1-84-3(3723)
ययातिरुवाच। 1-84-4x(507)
इमं भौमं नरकं ते पतन्ति
ललाप्यमाना नरदेव सर्वे।
ते कङ्कगोमायुबलाशनार्थे
क्षीणे पुण्ये बहुधा प्रव्रजन्ति॥ 1-84-4(3724)
तस्मादेतद्वर्जनीयं नरेन्द्र
दुष्टं लोके गर्हणीयं च कर्म।
आख्यातं ते पार्थिव सर्वमेव
भूयश्चेदानीं वद किं ते वदामि॥ 1-84-5(3725)
अष्टक उवाच। 1-84-6x(508)
यदा तु तान्वितुदन्ते वयांसि
तथा गृध्राः शितिकण्ठाः पतङ्गाः।
कथं भवन्ति कथमाभवन्ति
न भौममन्यं नरकं शृणोमि॥ 1-84-6(3726)
ययातिरुवाच। 1-84-7x(509)
ऊर्ध्वं देहात्कर्मणो जृम्भमाणा-
द्व्यक्तं पृथिव्यामनुसंचरन्ति।
इमं भौमं नरकं ते पतन्ति
नावेक्षन्ते वर्षपूगाननेकान्॥ 1-84-7(3727)
षष्टिं सहस्राणि पतन्ति व्योम्नि
तथा अशीतिं परिवत्सराणि।
तान्वै तुदन्ति पततः प्रपातं
भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः॥ 1-84-8(3728)
अष्टक उवाच। 1-84-9x(510)
यदेनसस्ते पततस्तुदन्ति
भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः।
कथं भवन्ति कथमाभवन्ति
कथंभूता गर्भभूता भवन्ति॥ 1-84-9(3729)
ययातिरुवाच। 1-84-10x(511)
अस्रं रेतः पुष्पफलानुपृक्त-
मन्वेति तद्वै पुरुषेण सृष्टम्।
स वै तस्या रज आपद्यते वै
स गर्भभूतः समुपैति तत्र॥ 1-84-10(3730)
वनस्पतीनोषधीश्चाविशन्ति
आपो वायुं पृथिवीं चान्तरिक्षम्।
चतुष्पदं द्विपदं चाति सर्व-
मेवंभूता गर्भभूता भवन्ति॥ 1-84-11(3731)
अष्टक उवाच। 1-84-12x(512)
अन्यद्वपुर्विदधातीह गर्भ-
मुताहोस्वित्स्वेन कायेन याति।
आपद्यमानो नरयोनिमेता-
माचक्ष्व मे संशयात्प्रब्रवीमि॥ 1-84-12(3732)
शरीरदेहातिसमुच्छ्रयं च
चक्षुःश्रोत्रे लभते केन संज्ञाम्।
एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः
क्षेत्रज्ञं त्वां तात मन्याम सर्वे॥ 1-84-13(3733)
ययातिरुवाच। 1-84-14x(513)
वायुः समुत्कर्षति गर्भयोनि-
मृतौ रेतः पुष्पफलानुपृक्तम्।
स तत्र तन्मात्रकृताधिकारः
क्रमेण संवर्धयतीह गर्भम्॥ 1-84-14(3734)
स जायमानो विगृहीतमात्रः
संज्ञामधिष्ठाय ततो मनुष्यः।
स श्रोत्राभ्यां वेदयतीह शब्दं
स वै रूपं पश्यति चक्षुषा च॥ 1-84-15(3735)
घ्राणेन गन्धं जिह्वयाऽथो रसं च
त्वचा स्पर्शं मनसा वेदभावम्।
इत्यष्टकेहोपहितं हि विद्धि
महात्मनः प्राणभृतः शरीरे॥ 1-84-16(3736)
अष्टक उवाच। 1-84-17x(514)
यः संस्थितः पुरुषो दह्यते वा
निखन्यते वापि निकृष्यते वा।
अभावभूतः स विनाशमेत्य
केनात्मानं चेतयते परस्तात्॥ 1-84-17(3737)
ययातिरुवाच। 1-84-18x(515)
हित्वा सोऽसून्सुप्तवन्निष्टनित्वा
पुरोधाय सुकृतं दुष्कृतं वा।
अन्यां योनिं पवनाग्रानुसारी
हित्वा देहं भजते राजसिंह॥ 1-84-18(3738)
पुण्यां योनिं पुण्यकृतो व्रजन्ति
पापां योनिं पापकृतो व्रजन्ति।
कीटाः पतङ्गाश्च भवन्ति पापा
न मे विवक्षास्ति महानुभाव॥ 1-84-19(3739)
चतुष्पदा द्विपदाः षट्पदाश्च
तथाभूता गर्भभूता भवन्ति।
आख्यातमेतन्निखिलेन सर्वं
भूयस्तु किं पृच्छसि राजसिंह॥ 1-84-20(3740)
अष्टक उवाच। 1-84-21x(516)
किंस्वित्कृत्वा लभते तात लोका-
न्मर्त्यः श्रेष्ठांस्तपसा विद्यया च।
तन्मे पृष्टः शंस सर्वं यथाव-
च्छुभाँल्लोकान्येन गच्छेत्क्रमेण॥ 1-84-21(3741)
ययातिरुवाच। 1-84-22x(517)
तपश्च दानं च शमो दमश्च
ह्रीरार्जवं सर्वभूतानुकम्पा।
स्वर्गस्य लोकस्य वदन्ति सन्तो
द्वाराणि सप्तैव महान्ति पुंसाम्।
नश्यन्ति मानेन तमोऽभिभूताः
पुंसः सदैवेति वदन्ति सन्तः॥ 1-84-22(3742)
अधीयानः पण्डितंमन्यमानो
यो विद्यया हन्ति यशः परेषाम्।
तस्यान्तवन्तश्च भवन्ति लोका
न चास्य तद्ब्रह्म फलं ददाति॥ 1-84-23(3743)
चत्वारि कर्माण्यभयङ्कराणि
भयं प्रयच्छन्त्ययथाकृतानि।
मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः॥ 1-84-24(3744)
न मानमान्यो मुदमाददीत
न सन्तापं प्राप्नुयाच्चावमानात्।
सन्तः सतः पूजयन्तीह लोके
नासाधवः साधुबुद्धिं लभन्ते॥ 1-84-25(3745)
इति दद्यामिति यज इत्यदीय इति व्रतम्।
इत्येतानि भयान्याहुस्तानि वर्ज्यानि सर्वशः॥ 1-84-26(3746)
ये चाश्रयं वेदयन्ते पुराणं
मनीषिणो मानसमार्गरुद्धम्।
तन्निःश्रेयस्तेन संयोगमेत्य
परां शान्तिं प्रत्युः प्रेत्य चेह॥ ॥ 1-84-27(3747)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुरशीतितमोऽध्यायः॥ 84 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-84-1 कार्तयुगप्रधाना कृतयुगे भवाः कार्तयुगा अत्यन्तनिष्पापास्तेषां मुख्यतमेत्यर्थः॥ 1-84-3 तत्र क्षीणपुण्याः कथं किंप्रकारा भवन्ति। ततश्च किंविशिष्टाः कीदृसाः सन्तः कस्य धाम स्थानं यान्ति कं लोकं यान्तीत्यर्थः॥ 1-84-4 तत्र कस्य धामेत्यस्योत्तरं इमं भौममिति। पुण्ये क्षीणे सति नरकं नरकोपमं बौमं भूसम्बन्धिनं इमं लोकं प्रति पतन्ति। कथं भवन्तीत्यस्योत्तरं ते कङ्केति। कङ्काश्च गोमायवश्च तेषां बलं सङ्घः तस्या शनार्थे अशनविषयीभूतैतद्देहरक्षणार्थे बहुधा प्रव्रजन्ति पर्यटन्ति॥ 1-84-5 तस्मादेतत्काम्यकर्म दुष्टं विषिद्धं गर्हणीयम्॥ 1-84-6 ननु कङ्कादिभक्षितस्य कथं स्वरूपसत्ता कथं वा शरीरान्तरेणाविर्भाव इति देहात्मवादमाश्रित्य शङ्कते। भौमो नरकश्च क इति पृच्छति च। यदा तु तानिति॥ 1-84-7 ऊर्ध्वं देहात् देहक्षयानन्तरम्। जृम्भमाणात्प्रबुद्धात्कर्मणो हेतोः व्यक्तं स्थूलं शरीरं अनु अनुप्रविश्य जीवाः संचरन्ति कर्मफलानि भुञ्जते इति यत् तदेव भौमो नरकः। कुतोऽस्य नरकत्वमत आह। नावेक्षन्ते वर्षपूगाननेकान् यस्मादत्र पतिता गतं वयो न बुध्यन्ते कर्मभूमिं प्राप्यापि स्वहिताय न यतन्तेऽत इत्यर्थः। एतेन कङ्कादिभक्षितस्यापि सत्वं देहयोगश्चास्तीत्युक्तम्॥ 1-84-8 षष्टिं सहस्राण्यशीतिं च सहस्राणि परिवत्सराणि व्योम्नि स्वर्गे स्थित्वा पतन्ति। दारादयो भौमा राक्षसाः। पातं भूमिस्थितिं प्रपततः अनुभवतः॥ 1-84-9 यत् यान् एनसः पापाद्धेतोः पततः स्वर्गाह्यवमानान् ते राक्षसास्तुदन्ति ते पुरुषाः कथं भवन्ति प्रपातभ्रष्टा इव कथं न शीर्यन्ते। कथं वा आभवन्ति इन्द्रियादिमन्तो भवन्ति। कथं वा गर्भत्वं प्राप्नुवन्तीति प्रश्नत्रयम्॥ 1-84-10 रेतः कर्तृ। अस्रं स्त्रीरजः कर्मभूतं अन्वेति। तद्द्वयं पुष्पफलादिभावेनानुपृक्तं कललादिरूपं भवति। तत् आहारादिवत्कथं न जीर्यत इत्यत आह। पुरुषेणेति। ईश्वरेणेत्यर्थः। रजः तदुपलक्षितान् धातून्। समुपैति दुःखादीनीति शेषः॥ 1-84-11 मात्रुदरपर्यन्तं प्रवेशक्रममाह। वनस्पतीति॥ 1-84-12 नरयोनिमापद्यमानो जीवः स्वेन कायेन जैवेनैव रूपेण गर्भं मातुरुदरं याति उत तत्र प्रवेष्टुमन्यद्वपुर्विदधाति॥ 1-84-13 शरीरदेहातिसमुच्छ्रयं मातुः शरीरे गर्भदेहस्यातिसमुच्छ्रयं वृद्धिम्। चक्षुःश्रोत्रे इतीन्द्रियमात्रोपलक्षणम्॥ 1-84-14 देहसमुच्छ्रयक्रममाह। वायुरिति। ऋतौ तत्काले वायुः गर्भयोनिं अस्रं प्रति रेतः समुत्कर्षति प्रापयति। ततश्च पुष्पफलानुपृक्तं कललादिरूपगर्भं सएव तत्र गर्भाशये क्रमेण संवर्धयति। कथंभूतः तन्मात्रे वृद्धिमात्रएव कृताधिकारः समर्थः॥ 1-84-15 स जीवः विगृहीता मात्रा सूक्ष्मशरीरं येन सः॥ 1-84-16 श्रोत्रादिकं इत्युपहितं संबद्धं विद्धि॥ 1-84-17 देहात्मवादेन पुनः शङ्कते। यः संस्थित इति। परस्तात् आत्मानं केन कारणेन चेतयते जानाति। देहातिरिक्तजीवाभावादिति बावः॥ 1-84-18 जीवो देहाद्भिन्नः पूर्वदेहं त्यक्त्वा सूक्ष्मदेहेन देहान्तरं प्राप्नोतीत्याह। हित्वेति। पवनाग्रानुसारी आतिवाहिकपवनानुसारी॥ 1-84-19 कर्मानुसारेण योनिप्राप्तिमाह। पुण्यामिति॥ 1-84-21 किंस्वित्कृत्वेति सामान्यप्रश्नः। तपसा विद्ययेति विशेषप्रश्नः। चो वार्थे॥ 1-84-22 पुंसः पुमांसः॥ 1-84-23 दर्पवता कृतमध्ययनादि न मोक्षोपयोगि नापि स्वर्गदं प्रत्युत भयावहमित्याह द्वाभ्याम्। अधीयान इति॥ 1-84-25 अतो मानापमानादिद्वन्द्वसहिष्णुर्भवेदित्याह। न मानमान्य इति॥ 1-84-26 इति दद्यामिति दाम्भिकस्य स्वधर्मप्रकाशनाभिनयः॥ 1-84-27 मानसमार्गरुद्धं ध्यानविषयीभूतं। वेदयन्ते जानन्ति। तद्वेदनं निःश्रेयः सुखसाधनम्॥ चतुरशीतितमोऽध्यायः॥ 84 ॥
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.